|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.47. अध्यायः 047
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
उपमन्युना कृष्णंप्रति तण्डिकृतमहादेवस्तुत्यनुवादः॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
उपमन्युरुवाच।
ऋषिरासीत्कृते तात तण्डिरित्येव विश्रुतः।
दशवर्षसहस्राणि तेन देवः समाधिना॥ 13-47-1(83127)
आराधितोऽभूद्भक्तेन तस्योदर्कं निशामय।
स दृष्टवान्महादेवमस्तौषीच्च स्तवैर्विभुम्॥ 13-47-2(83128)
[इति तण्डिस्तपोयोगात्परमात्मानमव्ययम्।
चिन्तयित्वा महात्मानमिदमाह सुविस्मितः॥ 13-47-3(83129)
यं पठन्ति सदा साङ्ख्याश्चिन्तयन्ति च योगिनः।
परं प्रधानं पुरुषमधिष्ठातारमीश्वरम्। 13-47-4(83130)
उत्पत्तौ च विनाशे च कारणं यं विदुर्बुधाः।
देवासुरमुनीनां च परं यस्मान्न विद्यते॥ 13-47-5(83131)
अजं तमहमीशानमनादिनिधनं प्रभुम्।
अत्यन्तसुखिनं देवमनघं शरणं व्रजे॥ 13-47-6(83132)
एवं ब्रुवन्नेव तदा ददर्श तपसान्निधिम्।
तमव्ययमनौपम्यमचिन्त्यं शाश्वतं ध्रुवम्॥ 13-47-7(83133)
निष्कलं सकलं ब्रह्म निर्गुणं गुणगोचरम्।
योगिनां परमानन्दमक्षरं मोक्षसंज्ञितम्॥ 13-47-8(83134)
मनोरिन्द्राग्निमरुतां विश्वस्य ब्रह्मणो गतिम्।
अग्राह्यमचलं शुद्धं बुद्धिग्राह्यं मनोमयम्॥ 13-47-9(83135)
दुर्विज्ञेयमसङ्ख्ये दुष्प्रापमकृतात्मभिः।
योनि विश्वस्य जगतस्तमसः परतः परम्॥ 13-47-10(83136)
यः प्राणवन्तमात्मानं ज्योतिर्जीवस्थितं मनः।
तं देवं दर्शनाकाङ्क्षी बहून्वर्षगणानृषिः।
तपस्युग्रे स्थितो भूत्वा दृष्ट्वा तुष्टाव चेश्वरम्॥] 13-47-11(83137)
तण्डिरुवाच। 13-47-12x(6862)
पवित्राणां पवित्रस्त्वं गतिर्गतिमतांवर॥ 13-47-12(83138)
अत्युग्रं तेजसां तेजस्तपसां परमं तपः।
विश्वावसुहिरण्याक्षपुरुहूतनमस्तृत॥ 13-47-13(83139)
भूरिकल्याणद विभो परं सत्यं नमोस्तु ते।
जातीमरणभीरूणां यतीनां यततां विभो॥ 13-47-14(83140)
निर्वाणद सहस्रांशो नमस्तेऽस्तु सुखाश्रय।
ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः॥ 13-47-15(83141)
न विदुस्त्वां तु तत्त्वेन कुतो वेत्स्यामहे वयम्।
त्वत्तः प्रवर्तते सर्वं त्वयि सर्वं प्रतिष्ठितम्॥ 13-47-16(83142)
कालाख्यः पुरुषाख्यश्च ब्रह्माख्यश्च त्वमेव हि।
तनवस्ते स्मृतास्तिस्रः पुराणज्ञैः सुरर्षिभिः॥ 13-47-17(83143)
अधिपौरुषमध्यात्ममधिभूताधिदैवतम्।
अधिलोकाधिविज्ञानमधियज्ञस्त्वमेव हि॥ 13-47-18(83144)
त्वां विदित्वाऽऽत्मदेवस्थं दुर्विदं दैवतैरपि।
विद्वांसो यान्ति निर्मुक्ताः परं भावमनामयम्॥ 13-47-19(83145)
अनिच्छतस्तव विभो जन्ममृत्युरनेकतः।
द्वारं तु स्वर्गमोक्षाणामाक्षेप्ता त्वं ददासि च॥ 13-47-20(83146)
त्वं वै स्वर्गश्च मोक्षश्च कामः क्रोधस्त्वमेव च।
सत्वं रजस्ममश्चैव अधश्चोर्ध्वं त्वमेव हि॥ 13-47-21(83147)
ब्रह्मा भवश्च विष्णुश्च स्कन्देन्द्रौ सविता यमः।
वरुणेन्दू मनुर्धाता विधाता त्वं धनेश्वरः॥ 13-47-22(83148)
भूर्वायुः सलिलाग्निश्च खं वाग्बुद्धिः स्थितिर्मतिः।
कर्म सत्यानृते चोभे त्वमेवास्ति च नास्ति च॥ 13-47-23(83149)
इन्द्रियाणीन्द्रियार्थाश्च प्रकृतिभ्यः परं ध्रुवम्।
विश्वाविश्वपरो भावश्चिन्त्याचिन्त्यस्त्वमेव हि॥ 13-47-24(83150)
यच्चैतत्परमं ब्रह्म यच्च तत्परमं पदम्।
या गतिः साङ्ख्ययोगानां स भवान्नात्र संशयः॥ 13-47-25(83151)
नूनमद्य कृतार्थाः स्म नूनं प्राप्ताः सतां गतिम्।
यां गतिं प्रार्तयन्तीह ज्ञाननिर्मलबुद्धयः॥ 13-47-26(83152)
अयो मूढाः स्म सुचिरमिमं कालमचेतसा।
यन्न विद्मः परं देवं शाश्वतं यं विदुर्बुधाः॥ 13-47-27(83153)
सेयमासादिता साक्षात्त्वद्भक्तिर्जन्मभिर्मया।
भक्तानुग्रहकृद्देवो यं ज्ञात्वाऽमृतमश्नुते॥ 13-47-28(83154)
देवासुरमुनीनां तु यच्च गुह्यं सनातनम्।
गुहायां निहितं ब्रह्मि दुर्विज्ञेयं मुनेरपि॥ 13-47-29(83155)
स एष भगवान्देवः सर्वकृत्सर्वतोमुखः।
सर्वात्मा सर्वदर्शी च सर्वगः सर्ववेदिता॥ 13-47-30(83156)
देहकृद्देहभृद्देही देहभुग्देहिनां गतिः।
प्राणकृत्प्राणभृत्प्राणी प्राणदः प्राणिनां गतिः॥ 13-47-31(83157)
अध्यात्मगतिरिष्टानां ध्यायिनामात्मवेदिनाम्।
अपुनर्भवकामानां या गतिः सोऽयमीश्वरः॥ 13-47-32(83158)
अयं च सर्वभूतानां शुभाशुभगतिप्रदः।
अयं च जन्ममरणे विदध्यात्सर्वजन्तुषु।
अयं संसिद्धिकामानां या गतिः सोयमीस्वरः। 13-47-33(83159)
भूराद्यान्सर्वभुवनानुत्पाद्य सदिवौकसः।
दधाति देवस्तनुभिरष्टाभिर्यो बिभर्ति च॥ 13-47-34(83160)
अतः प्रवर्तते सर्वमस्मिन्सर्वं प्रतिष्ठितम्।
अस्मिंश्च प्रलयं याति अयमेकः सनातनः॥ 13-47-35(83161)
अयं स सत्यकामानां सत्यलोकः परं सताम्।
अपवर्गश्च मुक्तानां कैवल्यं चात्मवेदिनाम्॥ 13-47-36(83162)
अयं ब्रह्मादिभिः सिद्धैर्गुहायां गोपितः प्रुभुः।
देवासुरमनुष्याणामप्रकाशो भवेदिति॥ 13-47-37(83163)
तं त्वां देवासुरनरास्तत्त्वेन न विदुर्भवम्।
मोहिताः खल्वनेनैव हृदिस्थेनाप्रकाशिना 13-47-38(83164)
ये चैनं प्रतिपद्यन्ते भक्तियोगेन भाविताः।
तेषामेवात्मनात्मानं दर्शयत्येष हृच्छयः॥ 13-47-39(83165)
यं ज्ञात्वा न पुनर्जन्म मरणं चापि विद्यते।
यं विदित्वा परं वेद्यं वेदितव्यं न विद्यते॥ 13-47-40(83166)
यं लब्ध्वा परमं लाभं नाधिकं मन्यते बुधः।
यां सूक्ष्मां परमां प्राप्तिं गच्छन्नव्ययमक्षयम्॥ 13-47-41(83167)
यं साङ्ख्या गुणतत्त्वज्ञाः साङ्ख्यशास्त्रविशारदाः।
सूक्ष्मज्ञानतराः सूक्ष्मं ज्ञात्वा मुच्यन्ति बन्धनैः 13-47-42(83168)
यं च वेदविदो वेद्यं वेदान्ते च प्रतिष्ठितम्।
प्राणायामपरा नित्यं यं विशन्ति जपन्ति च॥ 13-47-43(83169)
ओंकाररथमारुह्य ते विशन्ति महेश्वरम्।
अयं स देवयानानामादित्यो द्वारमुच्यते॥ 13-47-44(83170)
अयं च पितृयानानां चन्द्रमा द्वारमुच्यते।
एष काष्ठा दिशश्चैव संवत्सरयुगादि च॥ 13-47-45(83171)
दिव्यादिव्यः परो लाभ अयने दक्षिणोत्तरे।
एनं प्रजापतिः पूर्वमाराध्य बहुभिः स्तवैः॥ 13-47-46(83172)
प्रजार्थं वरयामास नीललोहितसंज्ञितम्।
क्रग्भिर्यमनुशासन्ति तत्त्वे कर्मणि बह्वृचाः॥ 13-47-47(83173)
यजुर्भिर्यत्त्रिधा वेद्यं जुह्वत्यध्वर्यवोऽध्वरे।
सामभिर्यं च गायन्ति सामगाः शुद्धबुद्धयः॥ 13-47-48(83174)
ऋतं सत्यं परं ब्रह्म स्तुवन्त्याथर्वणा द्विजाः।
यज्ञस्य परमा योनिः परिश्चायं परः स्मृतः॥ 13-47-49(83175)
रात्र्यहः श्रोत्रनयनः पक्षमासशिरोभुजः।
ऋतुवीर्यस्तपोधैर्यो ह्यब्दगुह्योरुपादवान्॥ 13-47-50(83176)
मृत्युर्यमो हुताशश्च कालः संहारवेगवान्।
कालस्य परमा योनिः कालश्चायं सनातनः॥ 13-47-51(83177)
चन्द्रादित्यौ सनक्षत्रौ ग्रहाश्च सह वायुना।
ध्रुवः सप्तर्षयश्चैव भुवनाः सप्त एव च॥ 13-47-52(83178)
प्रधानं महदव्यक्तं विशेषान्तं सवैकृतम्।
ब्रह्मादिस्तम्बपर्यन्तं भूतादि सदसच्च यत्॥ 13-47-53(83179)
अष्टौ प्रकृतयश्चैव प्रकृतिभ्यश्च यः परः।
अस्य देवस्य यद्भागं कृत्स्नं सम्परिवर्तते॥ 13-47-54(83180)
एतत्परममानन्दं यत्तच्छाश्वतमेव च।
एषा गतिर्विरक्तानामेष भावः परः सताम्॥ 13-47-55(83181)
एतत्पदमनुद्विग्नमेतद्ब्रह्म सनातनम्।
शास्त्रवेदाङ्गविदुषामेतद्ध्यानं परं पदम्॥ 13-47-56(83182)
इयं सा परमा काष्ठा इयं सा परमा कला।
इयं सा परमा सिद्धिरियं सा परमा गतिः॥ 13-47-57(83183)
इयं सा परमा शान्तिरियं सा निर्वृतिः परा।
यं प्राप्य कृतकृत्याः स्म इत्यमन्यन्त योगिनः॥ 13-47-58(83184)
इयं तुष्टिरियं सिद्धिरियं श्रुतिरियं स्मृतिः।
अध्यात्मगतिरिष्टानां विदुषां प्राप्तिरव्यया॥ 13-47-59(83185)
यजतां कामयानानां मखैर्विपुलदक्षिणैः।
या गतिर्यज्ञशीलानां सा गतिस्त्वं न संशयः॥ 13-47-60(83186)
सम्यग्योगजपैः शान्तिर्नियमैर्देहतापनैः।
तप्यतां या गतिर्देव परमा सा गतिर्भवान्॥ 13-47-61(83187)
कर्मन्यासकृतानां च विरक्तानां ततस्ततः।
या गतिर्ब्रह्मिसदने सा गतिस्त्वं सनातन॥ 13-47-62(83188)
अपुनर्भवकामानां वैराग्ये वर्ततां च या।
प्रकृतीनां लयानां च सा गतिस्त्वं सनातन॥ 13-47-63(83189)
ज्ञानविज्ञानयुक्तानां निरुपाख्या निरञ्जना।
कैवल्या या गतिर्देव परमा सा गतिर्भवान्॥ 13-47-64(83190)
वेदशास्त्रपुराणोक्ताः पञ्च ता गतयः स्मृताः।
त्वत्प्रसादाद्धि लभ्यन्ते न लभ्यन्तेऽन्यथा विभो॥ 13-47-65(83191)
इति तण्डिस्तपोराशिस्तुष्टावेसानमात्मना।
जगौ च परमं ब्रह्म यत्पुरा लोककृज्जगौ॥ 13-47-66(83192)
उपमन्युरुवाच। 13-47-67x(6863)
एवं स्तुतो महादेवस्तण्डिना ब्रह्मवादिना।
उवाच भगवान्देव उमया सहितः प्रभुः॥ 13-47-67(83193)
ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः।
न विदुस्त्वामिति ततस्तुष्टः प्रोवाच तं शिवः॥ 13-47-68(83194)
अक्षयश्चाव्ययश्चैव भविता दुःखवर्जितः।
यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः॥ 13-47-69(83195)
ऋषीणामभिगम्यश्च सूत्रकर्ता सुतस्तव।
मत्प्रसादाद्द्विजश्रेष्ठ भविष्यति न संशयः॥ 13-47-70(83196)
कं वा कामं ददाम्यद्य ब्रूहि यद्वत्स काङ्क्षसे।
प्राञ्जलिः स उवाचेदं त्वयि भक्तिर्दृढाऽस्तु मे॥ 13-47-71(83197)
उपमन्युरुवाच। 13-47-72x(6864)
एतान्दत्त्वा वरान्देवो वन्द्यमानः सुरर्षिभिः।
स्तूयमानश्च विबुधैस्तत्रैवान्तरधीयत॥ 13-47-72(83198)
अन्तर्हिते भगवति सानुगे यादवेश्वर।
ऋषिराश्रममागम्य ममैतत्प्रोक्तवानिह॥ 13-47-73(83199)
यानि च प्रथितान्यादौ तण्डिराख्यातवान्मम
मानानि मानवश्रेष्ठ तानि त्वं शृणु सिद्धये॥ 13-47-74(83200)
दश नामसहस्राणि देवेष्वाह पितामहः।
सर्वस्य शास्त्रेषु तथा दश नामशतानि च॥ 13-47-75(83201)
गुह्यानीमानि नामानि तण्डिर्भगवतोऽच्युत।
देवप्रसादाद्देवेशः पुरा प्राह महात्मने॥ ॥ 13-47-76(83202)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तचत्वारिंशोऽध्यायः॥ 47 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-47-2 उदर्कं फलोदयम्॥ 7-47-27 अचेतसा अज्ञानेन ॥ 7-47-42 सूक्ष्मं लिङ्गं ज्ञानेन तरन्त्यतिकम्य गच्छन्ति ते सूक्ष्मज्ञानतराः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|